कश्मीर के उरी में हिए हमले पर हमारे कविगण
(महेशझा पस्टन, अरविन्दजी, प्रेमजी, संजयजी प्रभृति )
अपनी प्रतिक्रिया कुछ इसप्रकार करते है-
पाकः परोक्षविधिना विदधाति युद्धं
सद्यो ह्यशक्त इति वेत्ति तु पूर्वमेव ।
निर्णायकं समरमद्य कुरुष्व चाशु
मन्यस्व नोस्य दुरवस्थितिमत्र बन्धो ॥ -महेशझा पस्टन
शासको मूक एवाधुना भारते
दानवैस्सैनिको मामको मार्यते।
श्रूयतां भारतीया: प्रिया बन्धव:
हन्यतामेष दैत्योsद्भुत: पाकज:। -अरविन्द:।
मार्यन्त एते बहवोऽस्मदीयाः,
ये सैनिकाःभारतभूमिभक्ताः।
हुतात्मनामद्य बलिर्विभाति,
नूनं बलं दास्यति भारताय॥
कथं सदा भारतदेश एष:
पश्यन् व्यथां मे सहते सहिष्णु:
नो हन्ति दैत्यान् हनुमान् प्रभूय
रामं स्मरन् घातनकर्मदक्षम्।
क्रोशन्ति सीमा अपि भारतीयाः,
स्वसैनिकानां रुधिरं विलोक्य।
उद्विग्नराष्ट्रं मनसा मदीयं,
प्रशान्तये प्रार्थयते प्रभुं तम्॥
एष देशोsस्मदीय: सुखं सर्वदा
वाञ्छतीवाद्य विज्ञायते मानवै:।
भारतं रत्नपूर्णं खलै: पीडितं
जृम्भतां जृम्भतां कामये सत्वरम्।
भवानि!दुर्गे! गणनाथमातः!,
शृणोतु कल्याणि! कृपां करोतु।
ददातु शक्तिं वरदे! ययेद-
मातङ्किनो हन्तु यथा स्वराष्ट्रम्॥
कश्मीरसैन्यशिविरे युधि विक्रमार्हान्
वीरान् मृतान्ननु निरीक्ष्य दुनोति चित्तम्।
आतङ्किसर्पफणपेषणदक्षदेशः
कस्मादयं रिपुसुतान्न पिनष्टि सद्यः।।**संजयः
प्रधानमन्त्रिण्! विनयं शृणोत्विमं,
ददातु पाकाय फलञ्च भूरिशः।
हता अनेके वरसैनिकाः प्रियाः,
यथाऽस्मदीयाः खलु तेन शत्रुणा॥
विचारदक्षो रिपुनाशनाक्ष:
प्रधानमन्त्री जनवन्द्यमान:।
महेन्द्रतुल्यो मनुजाग्रगण्य:
हन्यात् स्वसैन्यैस्सह मारणीयान्।
पाकातङ्कविनाशाय पाकिस्तानं विनश्यताम्।
पाकिस्तानविनाशेन पाकातङ्को विनक्ष्यति।।
आतङ्कमाता ननु पाकरूपा
नष्टा भवेत्सा खलु निश्चयेन।
सर्वत्र हत्यां विदधन्ति ते वै!
तत्पुत्रभूताः खलु पापिनस्ते।। (डा.शशिकान्तः)
पाकाधिकृतभूभागं काश्मीराणां स्वसैनिकैः|
पाकातंकविनाशाय रिक्तं कारयतु प्रभो!||१||
सूच्यन्ते सादरं सर्वैर्मान्याः नरेन्द्रमोदिनः|
कालेsस्मिन् स्वाधिकाराय भारतदेशवासिभिः||२||
पाकाधिकृतकाश्मीरभूभागप्राप्तये ध्रुवाम्|
नीतिं निर्माय युद्धस्य शीघ्रं हि घोषणां कुरु||३||
सद्यो ह्यशक्त इति वेत्ति तु पूर्वमेव ।
निर्णायकं समरमद्य कुरुष्व चाशु
मन्यस्व नोस्य दुरवस्थितिमत्र बन्धो ॥ -महेशझा पस्टन
शासको मूक एवाधुना भारते
दानवैस्सैनिको मामको मार्यते।
श्रूयतां भारतीया: प्रिया बन्धव:
हन्यतामेष दैत्योsद्भुत: पाकज:। -अरविन्द:।
मार्यन्त एते बहवोऽस्मदीयाः,
ये सैनिकाःभारतभूमिभक्ताः।
हुतात्मनामद्य बलिर्विभाति,
नूनं बलं दास्यति भारताय॥
कथं सदा भारतदेश एष:
पश्यन् व्यथां मे सहते सहिष्णु:
नो हन्ति दैत्यान् हनुमान् प्रभूय
रामं स्मरन् घातनकर्मदक्षम्।
क्रोशन्ति सीमा अपि भारतीयाः,
स्वसैनिकानां रुधिरं विलोक्य।
उद्विग्नराष्ट्रं मनसा मदीयं,
प्रशान्तये प्रार्थयते प्रभुं तम्॥
एष देशोsस्मदीय: सुखं सर्वदा
वाञ्छतीवाद्य विज्ञायते मानवै:।
भारतं रत्नपूर्णं खलै: पीडितं
जृम्भतां जृम्भतां कामये सत्वरम्।
भवानि!दुर्गे! गणनाथमातः!,
शृणोतु कल्याणि! कृपां करोतु।
ददातु शक्तिं वरदे! ययेद-
मातङ्किनो हन्तु यथा स्वराष्ट्रम्॥
कश्मीरसैन्यशिविरे युधि विक्रमार्हान्
वीरान् मृतान्ननु निरीक्ष्य दुनोति चित्तम्।
आतङ्किसर्पफणपेषणदक्षदेशः
कस्मादयं रिपुसुतान्न पिनष्टि सद्यः।।**संजयः
प्रधानमन्त्रिण्! विनयं शृणोत्विमं,
ददातु पाकाय फलञ्च भूरिशः।
हता अनेके वरसैनिकाः प्रियाः,
यथाऽस्मदीयाः खलु तेन शत्रुणा॥
विचारदक्षो रिपुनाशनाक्ष:
प्रधानमन्त्री जनवन्द्यमान:।
महेन्द्रतुल्यो मनुजाग्रगण्य:
हन्यात् स्वसैन्यैस्सह मारणीयान्।
पाकातङ्कविनाशाय पाकिस्तानं विनश्यताम्।
पाकिस्तानविनाशेन पाकातङ्को विनक्ष्यति।।
आतङ्कमाता ननु पाकरूपा
नष्टा भवेत्सा खलु निश्चयेन।
सर्वत्र हत्यां विदधन्ति ते वै!
तत्पुत्रभूताः खलु पापिनस्ते।। (डा.शशिकान्तः)
पाकाधिकृतभूभागं काश्मीराणां स्वसैनिकैः|
पाकातंकविनाशाय रिक्तं कारयतु प्रभो!||१||
सूच्यन्ते सादरं सर्वैर्मान्याः नरेन्द्रमोदिनः|
कालेsस्मिन् स्वाधिकाराय भारतदेशवासिभिः||२||
पाकाधिकृतकाश्मीरभूभागप्राप्तये ध्रुवाम्|
नीतिं निर्माय युद्धस्य शीघ्रं हि घोषणां कुरु||३||
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें