मै चाहता हूँ कि हमारे सारे मित्र
अपने मित्रों को हिन्दी या अङ्ग्रेजी के बदले संस्कृत के वाक्य प्रयोग करने हेतु प्रेरित करेँ-
- अहं देवालयं/कार्यालयं/विपणिं गच्छामि = I am going to temple/office/market.
- किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
- भवन्तं कुत्रापि दृष्टवान् ।= I remember to have seen you somewhere.
- भवान् सम्भाषणशिविरं आगतवान् वा ? = Have you come to the conversation camp ?
- तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
- तर्हि तत्रैव दृष्टवान् ।= I must have seen you there in that case.
- तथैव अस्तु । = Let it be so/so be it.
- जानामि भोः । = I know it.
- आम्, तत् सत्यम् । = Yes,that is right.
- समीचीना सूचना । = A good suggestion indeed.
- किंचित् एव । = A little.
- किमर्थं तद् न भवति ? = Why can't that be done ?
- भवतु नाम । = Leave it at that.
- ओहो ! तथा वा ? = Oh! Is that so ?
- एवमपि अस्ति वा ? = Is it like this ?
- अथ किम् ? = Then ?
- नैव किल ! = No
- भवतु ! = Yes
- आगच्छन्तु । = Come in.
- उपविशन्तु । = Please sit down.
- सर्वथा मास्तु । = Definitely no.
- अस्तु वा ? = Can that be so ?
- किमर्थं भोः ? = Why ?
- प्राप्तं किल ? = You have got it, haven't you ?
- प्रयत्नं करोमि । = I will try.
- न शक्यते भोः । = No, I can't.
- तथा न वदतु । = Don't say that.
- तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
- तद् अहं न ज्ञातवान् । = I didn't know that.
- कदा ददाति ? = When are you going to give me ?
- अहं कथं वदामि {\rm `}कदा इति{\rm '} ? = How can I say when ?
- तथा भवति वा ? = Can that be so ?
- भवतः समयावकाशः अस्ति वा ? = Are you free ?
- अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
- अरे ! पादौ / हस्तौ किं अभवत् ? = Oh! What happened to your legs/arms?
- बहुदिनेभ्यः ते परिचिताः । = I have known him for long
- तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
- भवान् न उक्तवान् एव । = You have not told me..
- अहं किं करोमि ? = What can I do ?
- अहं न जानामि । = I don't know.
- यथा भवान् इच्छति तथा । = As you wish/say.
- भवतु, चिन्तां न करोतु = Yes, don't bother.
- तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.
- सः सर्वथा अप्रयोजकः । = He is good for nothing.
- पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.
- मौनमेव उचितम् । = Better be quiet.
- तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard No comments, please/I must think before I say anything.
- तर्हि समीचीनम् । = O.K. if that is so.
- एवं चेत् कथम् ? = How to get on, if it is so ?
- मां किञ्चित् स्मारयतु । = Please remind me.
- तं अहं सम्यक् जानामि । = I know him well.
- तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
- कदा उक्तवान् भोः ? = When did you say so ?
- यत्किमपि भवतु । = Happen what may.
- सः बहु समीचीनः = He is a good fellow.
- सः बहु रूक्षः । = He is very rough.
- तद्विषये चिन्ता मास्तु । = Don't worry about that.
- तथैव इति न नियमः । = It is not like that.
- कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.
- एतावत् अपि कृतवान् ! = At least he has done this much !
- द्रष्टुं एव न शक्यते । = Can't see it.
- तत्रैव कुत्रापि स्यात् । = It may be somewhere there.
- यथार्थं वदामि । = I am telling the truth.
- एवं भवितुं अर्हति । = This is O.K./all right.
- कदाचित् एवमपि स्यात् । = It may be like this sometimes.
- अहं तावदपि न जानामि वा ? = Don't I know that much ?
- तत्र गत्वा किं करोति ? = What are you going to do there ?
- पुनः आगच्छन्तु । = Come again.
- मम किमपि क्लेशः नास्ति । = It is no trouble (to me).
- एतद् कष्टं न । = This is not difficult.
- भोः, आनीतवान् वा ? = Have you brought it ?
- भवतः कृते कः उक्तवान् ? = Who told you this ?
- किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later.
- प्रायः तथा न स्यात् । = By and large, it may not be so.
- चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.
- अहं पुनः सूचयामि । = I will let you know.
- अद्य आसीत् वा ? = Was it today ?
- अवश्यं आगच्छामि । = Certainly, I will come.
- नागराजः अस्ति वा ? = Is Nagaraj in ?
- किमर्थं तत् एवं अभवत् ? = Why did it happen so ?
- तत्र आसीत् वा ? = Was it there ?
- किमपि उक्तवान् वा ? = Did you say anything ?
- कुतः आनीतवान् ? = Where did you bring it from ?
- अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.
- मम वचनं शृणोतु । = Please listen to me.
- एतत् सत्यं किल ? = It is true, isn't it ?
- तद् अहं अपि जानामि । = I know it myself.
- तावद् आवश्यकं न । = It is not needed so badly.
- भवतः का हानिः ? = What loss is it to you ?
- किमर्थं एतावान् विलम्बः ? = Why are you late ?
- यथेष्टं अस्ति । = Available in plenty.
- भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?
- अस्य किं कारणम् ? = What is the reason for this ?
- स्वयमेव करोति वा ? = Do you do it yourself ?
- तत् न रोचते ? = I don't like it.
- उक्तं एव वदति सः । = He has been repeating the same thing.
- अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.
- किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?
- स्पष्टं न जानामि । = Don't know exactly.
- निश्चयः नास्ति । = Not sure.
- कुत्र आसीत् भवान् ? = Where were you ?
- भीतिः मास्तु । = Don't get frightened.
- भयस्य कारणं नास्ति । = Not to fear.
- तदहं बहु इच्छामि = I like that very much.
- कियत् लज्जास्पदम् ? = What a shame ?
- सः मम दोषः न । = It is not my fault.
- मम तु आक्षेपः नास्ति । = I have no objection.
- सः शीघ्रकोपी । = He is short-tempered.
- तीव्रं मा परिगणयतु । = Don't take it seriously.
- आगतः एषः वराकः । = Here comes the miserable.
- युक्ते समये आगतवान् । = you have come at the right time.
- बहु जल्पति भोः । = He talks too much.
- एषा केवलं किंवदन्ती । = It is just gossip.
- किमपि न भवति । = Nothing happens.
- एवमेव आगतवान् । = Just came to call on you.
- विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?
- भवतः वचनं सत्यम् । = You are right.
- मम वचनं कः शृणोति ? = Who listens to me ?
- तदा तद् न स्फुरितम् । = It did not flash me then.
- किमर्थं तावती चिन्ता ? = Why so much botheration ?
- भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ?
- न, एवं न भवितव्यं आसीत् । = No, it should not have happened.
- अन्यथा न चिन्तयतु । = Don't mistake / misunderstand.
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें